भगवानको तनियन

श्री लक्ष्मीनारायण मन्दिर

हरीशवर्ग, पेन्सीलभेनिया

वैक्रमे पिङ्गले चाब्दे  नासत्याम्बर दन्ति खे । शुक्रमासे शुक्लपक्षे  पञ्चम्यां पुष्यतारके ॥

देशे चामेरिकाराज्ये  पेन्सीलभेनिये वरे । नद्या: सुदर्शनी नाम्न्याः  रम्ये पूर्वोत्तरे तटे ॥

हरीशवर्गे नगरे  प्रार्थितो केशवादिभि । रन्यैर्भागवतैश्चैव  दयार्द्रीकृत चेतसः ॥

शठारियतिराड् सौम्य- जामातृ-सूरिभिस्तथा । श्री भू गोदादि सहितो  जातो नारायणः स्वयम् ॥

श्री भूमी देविगोदा  शठरिपुयतिराड्  रम्यजामातृ वर्यैः ।

अण्णा श्रीवादिभीकृद्वरवरमुनि  पादाब्ज युक्तैस्तथान्यैः ।

योगीराजेति नामा गुरुवर  जगदाचार्य सूर्यादिभिश्च स्वीकर्त्रे विग्रहार्चां सुलभगुणवशात्  कामये मंगलानि ॥