सुमङ्गलं मंगलमीश्वराय ते सुमंगलं मङ्गलमच्युताय ते ।
सुमङ्गलं मंगलमन्तरात्मने सुमंगलं मङ्गलमब्जनाभते ॥१॥
सुमंगलं श्रीनिलयोरुवक्षसे सुमंगलं पद्मभवादिसेविते।
सुमंगलं पद्मगजन्निवासिने सुमङ्गलं चाश्रितमुक्तिदायिने ॥२॥
चाणुरदर्पघ्नसुवाहुदण्डयोः सुमंगलं मंगलमादिपुरुषे ।
बालार्ककोटिप्रतिभाय ते विभो चक्राय दैतेन्द्रविनाशहेतवे ॥ ३ ॥
शंखाय कोटीन्दुसमानतेजसे शार्ङ्गय रत्नोज्ज्वल दिव्यरुपिणे ।
खड्गाय विद्यामयविग्रहाय ते सुमंगल मंगलमस्तु ते विभो ॥ ४ ॥
तदावयोस्तत्वविशिष्टशेषिणे शेषित्वसम्बन्धनिबोधनाय ते ।
यन्मंगलानां च सुमंगलाय ते पुनः पुनर्मंगलमस्तु संततम् ॥ ५ ॥