वैक्रमे पिङ्गले चाब्दे नासत्याम्बर दन्ति खे ।
शुक्रमासे शुक्लपक्षे पञ्चम्यां पुष्यतारके ॥ १॥
देशे चामेरिकाराज्ये पेन्सीलभेनिये वरे ।
नद्या: सुदर्शनी नाम्न्याः रम्ये पूर्वोत्तरे तटे ॥२॥
हरीशवर्गे नगरे प्रार्थितो केशवादिभि ।
रन्यैर्भागवतैश्चैव दयार्द्रीकृत चेतसः ॥३॥
शठारियतिराड् सौम्यजामातृ-सूरिभिस्तथा ।
श्री भू गोदादि सहितो जातो नारायणः स्वयम् ॥४॥
श्री भूमी देविगोदा शठरिपुयतिराड् रम्यजामातृ वर्यैः ।
अण्णा श्रीवादिभीकृद्वरवरमुनि पादाब्ज युक्तैस्तथान्यैः ।
योगीराजेति नामा गुरुवर जगदाचार्य सूर्यादिभिश्च
स्वीकर्त्रे विग्रहार्चां सुलभगुणवशात् कामये मंगलानि ॥५॥