वेदस्तुतिः

परीक्षिद उवाच

ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥१॥

श्रीशुक उवाच

बुद्धीन्द्रियमनः प्राणान् जनानामसृजत् प्रभुः । 

मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥२॥

सैषा ह्युपनिषद् ब्राह्मी पूर्वेषां पूर्वजैर्धृता । 

श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥३॥

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । 

नारदस्य च संवादमृषेर्नारायणस्य च ॥४॥

एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । 

सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥५॥ 

यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम्। 

धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥६॥

तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । 

परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥७॥

तस्मै ह्यवोचद् भगवानृषीणां शृण्वतामिदम्।

यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥८॥

श्रीभगवानुवाच

स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा । 

तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥९॥

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । 

तत्र हायमभूत् प्रश्नस्त्वं मां यमनुपृच्छसि ॥१०॥

तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः । 

अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥११॥

सनन्दन उवाच

स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । 

तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥१२॥

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । 

प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥१३॥

श्रुतय ऊचुः

जय जय जह्यजामजित दोषगृभीतगुणां

त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

अगजगदोकसामखिलशक्त्यवबोधक ते

क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥१४॥

बृहदुपलब्धमेतदवयन्त्यवशेषतया

यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । 

अत ऋषयो दधुस्त्वयि मनोवचनाचरितं 

कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥१५॥

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल- 

क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । 

किमुत पुनः स्वधामविधुताशयकालगुणाः 

परम भजन्ति ये पदमजस्त्रसुखानुभवम् ॥१६॥

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा

महदहमादयोऽण्डमसृजन् यदनुग्रहतः ।

पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः

सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥१७॥

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः

परिसरपद्धतिं हृदयमारुणयो दहरम् ।

तत उदगादनन्त तव धाम शिरः परमं

पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥१८॥

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया

तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । 

अथ वितथास्वमूष्ववितथं तव धाम समं

विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥१९॥

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरण

तव पुरुषं वदन्त्यखिलशक्तिधृतों ऽशकृतम् ।

इति नृगतिं विविच्य कवयो निगमावपनं

भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥२०॥

दुरवगमात्मतत्त्वनिगमाय तवात्ततनो-

श्चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

न परिलषन्ति केचिदपवर्गमपीश्वर ते

चरणसरोजहंसकुलसङ्गविसृष्टगृहाः॥२१॥

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियव-

च्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

न बत रमन्त्यहो असदुपासनयाऽऽत्महनो

यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥२२॥

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि य-

न्मुनय उपासते तदरयोऽपि ययुः स्मरणात्।

स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो

वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥२३॥

क इह नु वेद बतावरजन्मलयोऽग्रसरं

यत उदगादृषिर्यमनु देवगणा उभये ।

तर्हि न सन्न चासदुभयं न च कालजवः

किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥२४॥

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां

विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

त्रिगुणमयः पुमानिति भिदा यदबोधकृता

त्वयि न ततः परत्र स भवेदवबोधरसे ॥२५॥

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्

सदभिमृशन्त्यशेषमिदमात्मतयाऽऽत्मविदः ।

न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया

स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥२६॥

तव परि ये चरन्त्यखिलसत्त्वनिकेततया

त उत पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ।

परिवयसे पशूनिव गिरा विबुधानपि तां-

स्त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥२७॥

त्वमकरणः स्वराडखिलकारकशक्तिधर-

स्तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो

विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥२८॥

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो

विहर उदीक्षया यदि परस्य विमुक्त ततः ।

न हि परमस्य कश्चिदपरो न परश्च भवेद्

वियत इवापदस्य तव शून्यतुलां दधतः ॥२९॥

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता-

स्तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।

अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्

सममनुजानतां यदमतं मतदुष्टतया ॥३०॥

न घटत उद्भवः प्रकृतिपूरुषयोरजयो-

रुभययुजा भवन्त्यसुभृतो जलबुद्बुदवत्।

त्वयि त इमे ततो विविधनामगुणैः परमे

सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥३१॥

नृषु तव मायया भ्रमममीष्ववगत्य भृशं

त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

कथमनुवर्ततां भवभयं तव यद् भ्रुकुटि:

सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥३२॥

विजितहृषीकवायुभिरदान्तमनस्तुरगं

य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

व्यसनशतान्विताः समवहाय गुरोश्चरणं

वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥३३॥

स्वजनसुतात्मदारधनधामधरासुरथै-

स्त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

इति सदजानतां मिथुनतो रतये चरतां

सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥३४॥

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदा-

स्त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे

न पुनरुपासते पुरुषसारहरावसथान् ॥३५॥

सत इदमुत्थितं

सदिति चेन्ननु तर्कहतं

व्यभिचरति क्व च

क्व च मृषा न तथोभययुक् ।

व्यवहृतये विकल्प

इषितोऽन्धपरम्परया

भ्रमयति भारती त
उरुवृत्तिभिरुक्थजडान् ॥३६॥

न यदिदमग्र आस न भविष्यदतो निधना-

दनुमितमन्तरा त्वयि विभाति मृषैकरसे।

अत उपमीयते द्रविणजातिविकल्पपथै-

र्वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥३४॥

स यदजया त्वजामनुशयीत गुणांश्च जुषन्

भजति सरूपतां तदनु मृत्युमपेतभगः ।

त्वमुत जहासि तामहिरिव त्वचमात्तभगो

महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥३८॥

यदि न समुद्धरन्ति यतयो हृदि कामजटा

दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

असुतृपयोगिनामुभयतोऽप्यसुखं भगव-

न्ननपगतान्तकादनधिरूढपदाद् भवतः ॥३९॥

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो-

र्गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

अनुयुगमन्वहं सगुण गीतपरम्परया

श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥४०॥

द्युपतय एव ते न ययुरन्तमनन्ततया

त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

ख इव रजांसि वान्ति वयसा सह यच्छ्रुतय-

स्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥४१॥

श्रीभगवानुवाच

इत्येतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥४२॥

इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।

समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥४३॥

त्वं चैतद् ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥४४॥

श्रीशुक उवाच

एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयाऽऽत्मवान् ।

पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥४५॥

नारद उवाच

नमस्तस्मै भगवते कृष्णायामलकीर्त्तये ।

यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥४६॥

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥४७॥

सभाजितो भगवता कृतासनपरिग्रहः ।

तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥४८॥

इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥४९॥

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो

यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

यं संपद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्त्रं हरिम् ॥५०॥

Share on Facebook